पृष्ठम्:काव्यसंग्रहः.pdf/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्मविवेकः । ५०७ श्रद्धावीज विप्रवेदाम्बुसिक्तः शाखा विद्यास्ताश्चतस्त्रो दशापि । पुण्यान्यर्या दे फले स्थूलसूक्ष् मोक्षः कामो धर्मवृक्षोयमीयः ॥ १ ॥ यातः क्ष्मामखिलां प्रदाय हरये पातालमूलं वलिः शक्कुप्रस्थविसर्जनात् स च मुनिः स्वर्गं समारोपितः । आवाल्यादसती सती सुरपुरीं कुन्ती समारोहयत् हा सीता पतिदेवतागमदधो धर्मस्व सूक्ष्मा गतिः ॥२॥ कानीनस्य मुनेः स्ववान्धववधूवैधव्य विध्वंसिनो नेप्तारः खलु गोलकस्य तनयाः कुण्डाः स्वयं पाण्डवाः । तेऽमी पञ्च समानयोनिरतयः तेषां गुणोत्कीर्तनात् अक्षय्यं सुकृतं भवेदविकलं धर्मस्य सूक्ष्मा गतिः ॥ ३ ॥ आहारे शुचिता ध्वनौ मधुरता नीडे पराधीनता वन्धी निर्ममता बने रसिकता वाचालता माधवे। यस्यैते गुणराशयः पिकवरं त्यक्त्वा किमेते जना वन्दन्ते खलुखञ्जनं कृमिभुजं चित्रा गतिः कर्मणां ॥ ४ ॥ कान्तं वक्ति कपोतिकाकुलतया नाथान्तकालोऽधुना व्याधोधो धृतचापशानितशरः श्येनः परिभ्राम्यति । इत्यं सत्यहिना स दष्ट इषुणा श्येनोपि तेनाइतस् Digi: zed by by Google