पृष्ठम्:काव्यसंग्रहः.pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नीतिसारं । एका भार्या प्रकृतिमुखरा चञ्चला च द्वितीया पुत्रस्त्वेको भुवनविजयी मन्मथो दुर्निवारः । शेषः शव्या शयनमुद्धौ वाहनं पनगारिः स्मारं स्मारं स्वगृहचरितं दारुभूतो मुरारिः ॥ १४ ॥ अतिदूरपथश्रान्ताञ्छायां यान्ति च शीतलां शीतलाच पुनर्यान्ति का कस्य परिदेवना ॥ १५ ॥ अपमानं पुरष्कृत्य मानं कृत्वा च पृष्ठके । स्वकार्यमुद्धरेत् प्राज्ञः कार्यध्वंसोहि मूर्खता ॥ १६ ॥ एको हि दोषो गुणसन्निपाते निमञ्जतीन्दोरिति योऽवभाषे । नूनं न दृष्टं कविनापि तेन दारिद्र दोषो गुणराशिनाशी ॥ १७ ॥ कृतस्य करणं नास्ति तस्य मरखं तथा । गतस्य शोचना नास्ति येतद्वेदविदाम्मतं ॥१८॥ नाकाले म्रियते जन्तुर्विचः शरशतैरपि । कुशकंटकविडोपि प्राप्तकालो न जीवति ॥ १९ ॥ निमग्रस्य पयोराशौ पर्वतात् पतितस्य च । तक्षकेनापि दष्टस्य आयुर्मर्माणि रक्षति ॥ २० ॥ करोतु नाम नीतिज्ञो व्यवसायमितस्ततः । फलं पुनस्तदेवस्याद् यदिधेर्मनसि स्थितं ॥ २१ ॥ इति श्रीमहाकविघटकर्परविरचितं नीतिसारं समाप्तं ॥ ॥ ● Google Digitized by