पृष्ठम्:काव्यसंग्रहः.pdf/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०४ नीतिसारं । गिरौ कलापी गगणे पयोदा लक्षान्तरेऽर्कञ्च जलेषु पद्माः । इन्दुर्द्विलक्षं कुमुदस्य वन्धुर् यो यस्य मिषं नहि तस्य दूरं ॥ १ ॥ माता निन्दति नाभिनन्दति पिता भ्राता न सम्भाषते भृत्यः कुप्यति मानुगच्छति सुतः कान्ता च नालिङ्गते । अर्थप्रार्थनशङ्कया न कुरुतेऽप्यालापमाचं सुहृत् तस्मादर्थमुपार्जयस्व च सखे स्वार्थस्य सर्वे वशाः ॥ २ ॥ धनैर्मिष्कुलीनाः कुलीना भवन्ति धनैरापदं मानवा निस्तरन्ति । धनेभ्यः परो बान्धवो नास्ति लोके धनान्यर्जयध्वं धनान्यर्जयध्वं ॥ ३ ॥ अर्थस्य पुरुषो दासो दासत्वर्थो न कस्यचित् । इति सत्यं महाराज बोमर्थेन कौरवैः ॥ ४ ॥ चिविक्रमोऽभूदपि वामनोऽसौ स शूकरश्चेति स वै ऌसिंहः । नीचेरनीचैरतिनीचनीचैः Digized by Google