पृष्ठम्:काव्यसंग्रहः.pdf/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०२ नीतिरत्नं । चतुर्मुखमुखाभोजशृङ्गाटकविहारिणीं । नित्य प्रगल्भवाचालामुपतिष्ठे सरस्वतीं ॥ १ ॥ इतरपापफलानि यथेच्छया वितर तानि सहे चतुरानन | अरसिकेषु कवित्वनिवेदनं शिरसि मालिख मालिख मालिख ॥ २ ॥ संसारविषवृक्षस्य दे फले हतोपमे । काव्यामृतरसास्वाद चालापः सज्जनैः सह ॥ ३ ॥ पण्डितेषु गुणाः सर्वे मूर्खे दोषाश्च केवलाः । तस्मान्मूर्खसहश्रेभ्यः प्राज्ञ एको विशिष्यते ॥ ४ ॥ पुरो रेवापारे गिरिरतिदुरारोहशिखरो धनुर्वाणैः पञ्चात् सवरकवरो धावति मृगं सरः सव्येऽसव्ये दवदहनदाहव्यतिकरो । न गन्तुं न स्थातुं हरिणशिशुरेवं विलयति ॥ ५॥ छेदञ्चन्दनचूतचम्पकवने रक्षा करीरद्रुमे हिंसा हंसमयूरकोकिलकुले काकेषु लीलारतिः । मातङ्गेन खरक्रयः समतुला कर्पूरकार्पासयोर् एषा यत्र विचारणा गुणिगणे देशाय तस्मै नमः ॥ ६॥ Digized by Google