पृष्ठम्:काव्यसंग्रहः.pdf/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपराधभञ्जस्तो । करचरणलतं वा कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधं । विदितमविदितं वा सर्वमेतत् क्षमस्व जय जय करुणाब्धे श्रीमहादेव शम्भो ॥ १६ ॥ गाचं भस्मसितं स्मितञ्च हसितं हस्ते कपालं सितं खटाङ्गच सितं सितश्च वृषभः कर्णे सिते कुण्डले । गङ्गाफेनसितं जटा पयसितं चन्द्रः सितो मूर्खनि सोऽयं सर्वसितो ददातु विभवं पापक्षयं शङ्करः ॥ १७ ॥ इति श्रीपरमहंस परिव्राजकाचार्य श्रीशङ्कराचार्य भगवत्कृतमपराधभञ्जनस्तोचं समाप्तं ॥ ० ॥ ५०१ Thipl: red by Google

I