पृष्ठम्:काव्यसंग्रहः.pdf/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०० अपराधभजनस्तो । क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ११ ॥ स्थित्वास्थाने सरोजे प्रणवमयमरुत् कुम्भके सूक्ष्ममार्गे । शान्ते स्वान्ते प्रलीने प्रकटितगहने ज्योतिरूपे पराख्थे । लिङ्गं त्वद्रह्मवाच्यं सकलमभिमतं नैव दृष्ठं कदाचित् । क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ १२ ॥ आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रत्यायान्ति गताः पुनर्न दिवसाः कालो अगद्धक्षकः । लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युजलं जीवनं तस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥ १३ ॥ चन्द्रोद्भाषितशेखरे स्मरहरे गङ्गाधरे शकरे सपैर्भूषित कण्ठकर्णविवरे नेषोत्यवैश्वानरे । दन्ति त्वक्स्वतिसुन्दराम्बरधरे चैलोक्य सारे हरे मोक्षार्थं कुरु चित्तष्टत्तिममलामन्यैस्तु किं कर्मभिः ॥१४॥ किं दानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं किंवा पुचकलचमिचपशुभिर्देन गेहेन किं । ज्ञात्वैतत् क्षणभङ्गरं सपदि रे त्याज्यं मनोदूरतः स्वात्मार्थं गुरुवाक्यतो भन्ज भज श्रीपार्वतीवल्लभं ॥ १५ ॥ Digized by Google