पृष्ठम्:काव्यसंग्रहः.pdf/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपराधभञ्जनस्तोत्रं । दुग्धैर्मध्वाज्ययुक्तैर्घटशतसहितैः नापितं नैव लिङ्गं । नोलिप्तं चन्दनायैः कनकविरचितैः पूजितं न प्रसूनैः ॥ धूपैः कर्पूरदीपैर विविध रसयुतैर् नैव भक्ष्योपदारैः । क्षन्तव्यो मे ऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥६॥ नमो निःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो । नासाग्रे न्यस्तदृष्टिर् बिहरभवगुखैर् नैव दृष्टं कदाचित | उन्मत्तावस्थया त्वां विगतकलिमलं शङ्करं न स्मरामि । क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ १०॥ ध्यानं चित्ते शिवास्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो । हव्यं ते लक्षसंख्यं हुतवहवदने नार्पितं बीजमन्त्रैः ॥ नो जप्तं गाङ्गतीरे व्रतपरिचरने रुद्रप्यैर् न वेदैः । Digized by by Google ४६६