पृष्ठम्:काव्यसंग्रहः.pdf/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९८ अपराधभञ्जनस्तोत्रं । पापै रोगैर् वियोगैर् अशहशवपुर्ण प्रौढहीनञ्च दीनं ॥ मिथ्यामोहाभिलाषैर् भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं । क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ६ ॥ नो शक्यं स्मार्तकर्म प्रतिषद्गहनं प्रत्यवायाकुलास्थं । श्रौते वार्ता कथं मे हिजकुलविहिते ब्रह्ममार्गे च सारे ॥ नष्टो धर्मो विचारः श्रवणमननयोः को निदिध्यासितव्यः । क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ७ ॥ स्नात्वा प्रत्यूषकाले स्नपनविधि विधौ नाहृतं गाङ्गतोयं । पूजार्थं वा कदाचिद् बहुमरुगहनात् खण्डविलैकपचं ॥ नानीता पद्ममाला सरसि विकषिता गन्धपुष्ये त्वदर्थं । क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ८ ॥ by Google Digl: red by