पृष्ठम्:काव्यसंग्रहः.pdf/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपराधभञ्जनस्तोत्रं । यद्यदा तत्र दुःखं विषयति विषमं शक्यते केन वक्तुं । क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ३ ॥ वाल्ये दुःखातिरेको मलंतुलितवपुः स्तन्यपाने पियासा । नो शक्यं चेन्द्रियेभ्यो भवगुणजनिता जन्तवो मां तुदन्ति || नानारोगोत्थदुःखादुदरपरिवशः शङ्करं न स्मरामि | क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ४ ॥ प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसन्धौ । दष्टो नष्टो विवेकः सुतधनयुवती स्वादुसौख्ये निषन्नः ॥ शैवे चिन्ताविहीनं मम हृदयमहो मान गर्वाधिरूटं । क्षन्तव्यो मे ऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ५ ॥ वाईको चेन्द्रियाणां विगतगतमतेर श्राधिदैवादितापैः । Dight by Google