पृष्ठम्:काव्यसंग्रहः.pdf/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मबोधः । आरुणेनैव बोधेन पूर्व सतमसे हते। तत आविर्भवेदात्मा स्वयमेवांशुमानिव ॥ ४२ ॥ आत्मा तु सततं प्राप्तोप्यप्राप्तवदविद्यया । तन्त्राशे प्राप्तवद्धाति स्वकष्ठाभरणं यथा ॥ ४३ ॥ स्थाणौ पुरुषवद्धांत्या कृता ब्रह्मणि जीवता । जीवस्य तात्विके रूपे तस्मिन् दृष्टे निवर्तते ॥४४॥ तत्त्वस्वरूपानुभवादुत्पन्नं ज्ञानमंजसा । अहं ममेति चाज्ञानं वाधते दिग्भ्रमादिवत् ॥ ४५ ॥ सम्यग्विज्ञानवान्योगी स्वात्मन्येवाखिलञ्जगत् । एकं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा ॥ ४६॥ श्रात्मैवेदं जगत् सर्वमात्मनोन्यन् न किंचन | मदो यद्दद् घटादीनि स्वात्मानं सर्वमीक्षते ॥४७॥ जीवन्मुक्तिस्तु तडिद्वान् पूर्वोपाधिगुणांस्त्यजेत् । सच्चिदानन्दरूपत्वाद्भजेश मरकीटवत् ॥ ४८ ॥ तीर्खा मोहार्णवं हत्वा रागडेयादिराक्षसान् । योगी सर्वसमायुक्त आत्माराम विराजते ॥ ४९ ॥ वाह्यानित्यसुखासक्तिं हित्वात्मसुखनिर्वृतः । घटस्थदीपवत् स्वच्छदन्तरेव प्रकाशते ॥ ५० ॥ उपाधिस्थोपि तञ्चमैर्निर्लिप्तो व्योमवमुनिः । सर्वविन्मूढवत्तिष्ठेदसक्तः वायुषञ्चरेत् ॥ ५१ ॥ उपाधिविलयाद्विष्णौ निर्विशेषं विशेन्मुनिः । जले जलं वियद् व्योम्नि तेजस्तेजसि वा यथा ॥ ५२ ॥ Digitzed by Google ४८३