पृष्ठम्:काव्यसंग्रहः.pdf/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६२ श्रात्माबोधः । देहान्यत्वान्नमे जन्मजराकार्थ्यलयादयः । शब्दादिविषयैः सङ्गो निरिन्द्रियतया न च ॥ ३१ ॥ श्रमनस्त्वान्नभे दुःखरागदेयभयादयः । अप्राणोयमनाः शुभ्रइत्यादि श्रुतिशासनात् ॥ ३२ ॥ निर्गुणो निष्क्रियो नित्यो निर्विकल्पो निरञ्जनः । निर्विकारो निराकारो नित्यमुक्तोस्मि निर्मलः ॥ ३३ ॥ अहमाकाशवत्सर्ववहिरन्तर्गतोऽच्युतः । सदा सर्वसमः शुद्धो निःसङ्गो निर्मलोऽचलः ॥ ३४ ॥ नित्यशुद्धविमुक्तैकमखण्डानन्दमयं । सत्यं ज्ञानमनन्तं यत्परं ब्रह्माइमेव तत् ॥ ३५॥ एवं निरन्तरं कृत्वा ब्रह्मैवास्मीति वासना । हरत्यविद्याविक्षेपान् रोगानिव रसायनं ॥ ३६॥ विविक्तदेश आसीनो विरागो विजितेन्द्रियः । भावयेदेकमात्मानं तमनन्तमनन्यधीः ॥ ३७॥ श्रात्मन्येवाखिलं दृश्यं प्रविलाप्य घिया सुधीः । भावयेदेकमात्मानं निर्मलाकाशवत्सदा ॥ ३८ ॥ रूपवर्णादिकं सर्वं विहाय परमार्थवित । परिपूर्णचिदानन्दस्वरूपेणावतिष्ठति ॥ ३८ ॥ ज्ञातृज्ञानज्ञेयभेदः परात्मनि न विद्यते । चिदानन्दैकरूपत्वाद्दीप्यते स्वयमेव हि ॥ ४० ॥ स्वमात्मारणौ ध्यानमथने सततं कृते । उदितावगतिर्जाला सर्वाज्ञानेन्धनं दहेत् ॥ ४१ ॥ Dight red by Google