पृष्ठम्:काव्यसंग्रहः.pdf/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मबोधः । यथाकाशो हृषीकेशो नानोपाधिगतो विभुः । तद्भेदाहिन्नवद्धाति तम्बाशादेकवद्भवेत् ॥ ८ ॥ नानोपाधिवशादेवं जातिनामाश्रयादयः । आत्मन्यारोपितास्तोये रसवर्णादिभेदवत् ॥ १०॥ पवीकृतमहाभूतसम्भवं कर्मसञ्चतिं । शरीरं सुखदुःखानां भोगायतनमुच्यते ॥ ११ ॥ पष्चप्राणमनोबविदशेन्द्रियसमन्वितं । अपचीकृतभूतोत्थ सूक्ष्माङ्गं भोगसाधनं ॥१२॥ अनाद्यविद्या निर्वाच्या कारणोपाधिरुच्यते । उपाधिचितयादन्यमात्मानमवधारयेत् ॥१३॥ पञ्चकोशादियोगेन तत्तन्मयइव स्थितः । शुद्धात्मा नीलवस्त्रादियोगेन स्फटिको यथा ॥१४॥ वपुस्तुषादिभिः कोशैर्युक्तं युक्त्यात्रघाततः । श्रात्मानमान्तरं शुद्धं विविच्यात्तण्डुलं यथा ॥ १५॥ सदा सर्वगतोप्यात्मा न सर्वचावभासते । बुद्धवेवावभासेत स्वच्छेषु प्रतिविम्बवत् ॥१६॥ देहेन्द्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणं । तहत्तिसाक्षिणं विद्यादात्मानं राजवत्सदा ॥ १७ ॥ व्याहत्तेष्ठिन्द्रियेषात्मा व्यापारीवाविवेकिनां । दृश्यतेऽभ्रेषु धावत्सु धावन्निव यथा शशी ॥१८॥ आत्मचैतन्यमाश्रित्य देहेन्द्रियमनोधियः । स्वकीयार्थेषु वर्तन्ते सूर्यालोकं यथा जनाः ॥ १८ ॥ nigit red by Google