पृष्ठम्:काव्यसंग्रहः.pdf/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मबोधः | ४८६ तपोभिः क्षीणपापानां शान्तानां वीतरागिणां । मुमुक्षूणामपेक्षोयमात्मबोधो विधीयते ॥ १ ॥ बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनं । पाकस्य वह्निवज्ञानं विना मोक्षो न सिध्यति ॥ २ ॥ अविरोधितया कर्म नाविद्यां विनिवर्तयेत् । विद्याविद्यां निहन्त्येव तेजस्तिमिरसंघवत् ॥ ३॥ परिच्छिन्न इवाज्ञानात्तनाशे सति केवलः । स्वयं प्रकाशते यात्मा मेघापायेंशुमानिव ॥ ४ ॥ अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्दिनिर्मलं । कृत्वा ज्ञानं स्वयं नश्येज्ञ्जसं कतकरेणुवत् ॥ ५ ॥ संसारः स्वप्नतुल्योहि रागद्वेषादिसपुलः । स्वकाले सत्यवद्धाति प्रबोधेऽसत्यवद्भवेत् ॥ ६ ॥ तावत्सत्यं जगद्धाति शुक्तिकारजतं यथा । यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमदयं ॥ ७ ॥ सञ्चिदात्मन्यनुस्यूते नित्ये विष्णौ प्रकल्पितः । व्यक्तयो विविधाः सर्वा हाटके कटकादिवत् ॥ ८ ॥ enigitzed by Google