पृष्ठम्:काव्यसंग्रहः.pdf/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साधनपश्चकं । ४८५ वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां तेनेशस्य पिधोयता मपचितिः कामे मतित्यज्यतां । पापौघः परिधूयतां भवसुखे दोषोनुसन्धीयताम् आत्मेच्छाव्यवसीयतां निजटहात्त विनिर्गम्यतां ॥ १ ॥ सङ्गः सत्सु विधीयतां भगवतो भक्तिर्हढा धीयतां शान्त्यादिः परिचीयतां दृढतरं कर्माशु संत्यज्यतां । सहियोच्युपसर्प्यतां प्रतिदिनं तत्पादुका सेव्यतां ब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरो वाक्यं समाकर्ण्यतां ॥ २ ॥ वाक्यार्थञ्च विचार्यतां श्रुतिशिरः पक्षः समाश्रीयतां दुस्तर्कात् सुविरम्यतां श्रुतिमतस्तनुसन्धीयतां । ब्रह्मवास्मि विभाव्यतामहरहर्गर्वः परित्यज्यतां देहेऽहम्मतिरुअज्झ्यतां बुधजनैर्वादः परित्यज्यतां ॥ ३ ॥ क्षुड्याधिय चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां स्वाइन्स्रं नतु यत्यतां विधिशात् प्राप्तेन सन्तुष्यतां । शीतोष्णादि विसयतां नतु हथावाकां समुच्चार्यताम् औदासीन्य मभीप्यतां जनपानैष्टुर्यमुत्सज्यतां ॥ ४ ॥ Digized by by Google