पृष्ठम्:काव्यसंग्रहः.pdf/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७८ काशीस्तोत्रं । गङ्गां सुविद्यां परमाङ्गतिं च सा काशिका मेस्तु गतिर्मुमुक्षोः ॥ २३ ॥ सर्वाणि तीर्थानि वसन्ति यस्यां वेदाः सदेवा मुनयश्च मुक्त्यै । विभूषिता या परया सुनचा सा काशिका मेस्तु गतिर्मुमुक्षोः ॥ २४ ॥ शवः शिवः स्यादशिवोपि यस्याम् अभद्रमुक्तं मरणच भद्रं । दरियपि श्रीपतितुल्य श्रास्ते तां काशिकां को न भजेत्सुबुद्धिः ॥ २५ ॥ विरक्तियोगादिभवा हि विद्या सुदुर्लभा नास्ति कलौ विमुक्तिः । यस्यां मृतस्तां समुपैति जन्तुः शिवप्रसादादिति निश्चितं हि ॥ २६ ॥ अतः सदा सैव निषेवितव्या मुमुक्षुभिः शङ्करराजधानी । स्वधर्मनिष्ठैः कलिकाल एका ध्येया च वंद्या परिकीर्तनीया ॥ २७ ॥ ये पुण्यशीलाः परिकीर्तयन्ति काशीं सदैव प्रणमन्ति भक्त्या । तेषामहम्यादरजो विभर्मि शोचामि नित्यं दयया तदन्यान् ॥ २८ ॥ Digized by Google