विद्युत्कम्पस्तिमितनयनां त्वत्सनाथे गवाक्षे
वक्तुं धीरस्तनितवचनै र्मामिनीं प्रक्रमेथाः ॥ १८ ॥
भर्तुर्मिचं प्रियमविधवे विद्धि मामम्बुवाहं
त्वत्मन्देशान्मनसि निचितादागतं त्वत्समीपं ।
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां
मन्द्रस्निग्धै र्ध्वनिभिरवलावेणीमोक्षोत्सुकानि ॥१०० ॥
इत्याख्याते पवनतनये मैथिलीवोन्मुखी सा
त्वामुत्कण्ठोसितहृदया वीक्ष्य सम्भाष्य चैवं ।
श्रोष्यत्यस्मात् परमवहिता सौम्य सीमन्तिमीनां
कान्तोदन्तः सुहृदुपनतः संगमात् किञ्चिदूनः ॥ १०१ ॥
तामायुष्मन्मम च वचनादात्मनश्चोपकर्त्तुं
ब्रूया एवं तव सहचरो रामगियीश्रमस्थः ।
श्रव्यापन्नहः कुशलमबले पृच्छति त्वां वियुक्तां
भूतानां हि क्षयिषु करणेछाद्यमाश्वास्यमेतत् ॥१०२ ॥
आङ्गेनाङ्गं सुतनु तनुता गाढतप्तेन तप्तं
साश्रेणाश्रु द्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
दीर्घोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्त्ती
सङ्कल्पैस्ते विशति विधिना वैरिणा रुद्धमार्गः ॥१०३॥
शब्दाख्येयं यदपि किल तै यः सखीनां पुरस्तात्
कर्णे लोस्रः कथयितुमभूदाननस्पर्शलोभात् ।
सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृश्यस्
त्वामुत्कण्ठ: विरचितपदं मन्मुखेनेदमाह ॥ १०४ ॥