सा संन्यस्ताभरणमवला पेलवं धारयन्ती
शय्योत्सङ्गे निद्दितमसकृत् दुःखदुःखेन गाचं ।
त्वामप्यश्रं नवजलमयं मोचविष्यत्यवश्यं
प्रायः सर्वो भवति कल्णष्टत्ति ॥ १४॥
जाने सख्यास्तव मयि मनः सम्भृतस्माद्
इत्यंभूतां प्रथमविश्वे तामहं तर्कयामि ।
वाचालं मां न खलु सुभगंमन्यभावः करोति
प्रत्यक्षं ते निखिलमचिराद्धातरुतं मया यत् ॥ १५ ॥
रुवापाङ्गप्रसरमलकैरानहइशून्यं
प्रत्यादेशादपि च मधुमो विस्तृतभ्रुविलास ।
त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्याः
मीनक्षोभाकुलकुवलयश्रीतुला मेष्यतीति ॥ १६॥
वामञ्चास्याः कररुहपदै र्मुच्यमानो मदीयैर्
मुक्त जातं चिरपरिचितं त्याजितो देवगत्या |
सम्भोगान्ते मम समुचितो इस्तसम्बा इनानां
यास्यत्युरुः कनककदस्त्रीस्तम्भगौरचलत्वं ॥ ८७ ॥
तस्मिन् काले अलद यदि सा लन्धनिद्रासुखा स्थात्
तत्रासीनः स्तनितविमुखो याममाचं सहेथाः ।
मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथश्चित्
सद्यः कष्टच्युतभुजलता ग्रन्थिगाठोपगूढं ॥ १८ ॥
तामु त्याप्य स्वजल कलिकाशीत लेनानिलेन
प्रत्याश्वस्तां सममभिनवै अलिक मालतीनां ।
पृष्ठम्:काव्यसंग्रहः.pdf/४८
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
मेघदूताख्यं ।