पृष्ठम्:काव्यसंग्रहः.pdf/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मणिकर्णिकामहिमा । अनेकजन्मसाइखतपोध्यानशिवार्चनैः । अद्वैतानंदसङ्गेन लब्धवेदान्तिसत्पदः ॥ १ ॥ सदाशिवसुतः शान्तः काश्यां गङ्गाधरः कविः । सर्वतीर्यवरां देवीं स्तौति श्रीमणिकर्णिकां ॥ २ ॥ आनन्दकाननमिदं सुखदं पुरैव तत्रापि चक्रसरसि मणिकर्णिकाथ । स्वःसिन्धुसङ्गतिरथो परमास्पदञ्च विश्वेशितुः किमिह तन्न विमुक्तये यत् ॥ ३ ॥ गर्जन्ति सर्वतीर्थानि स्वस्वधिट्यगतान्यहो । केवलं बलमासाद्य सुमहम्माणिकर्णिकं ॥४॥ शिवाद्या देवसंघाच सनकाद्या महर्षयः । by Google Digitized by ४७१