पृष्ठम्:काव्यसंग्रहः.pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गङ्गाष्टकं । चलितशशिकुलाभरुत्तर स्तर श्रमितनदनदीनामंगसरसः । विहरसि जगदण्डे खण्डयन्ती गिरीन्द्रान् रमयसि निजकान्तं सागरं कान्तकान्ते ॥ ५ ॥ तव परमहिमानं चित्तवाचाममानं हरिहरविधिशका नापि गङ्गे विदन्ति । श्रुतिकुलमभिधत्ते शंकितं तं गुणान्तं गुणगणसुविलापैर नेति नेतीति सत्यं ॥ ६ ॥ तव नुतिनतिनामान्यप्यघं पाषयन्ति ददति परमशान्तिं दिव्यभोगान् जनानां । इति पतितशरण्ये त्वां प्रपन्नोस्मि मातर् ललिततरतरङ्गे चांगगङ्गे प्रसीद ॥ ७ ॥ शुभतरकृतयोगादिश्वनाथप्रसादाद् भवहरवरविद्यां प्राप्य काश्यां हि गङ्गे । भगवति तव तीरे नीरसारं निपीय मुदितहृदयकत्रे नन्दसूनुं भजे ॥ ८ ॥ गङ्गाष्टकमिदं कृत्वा भुक्तिमुक्तिप्रदं नृणां । सत्यज्ञानानन्दनीर्थयतिना स्वर्पितं शिवे ॥ ८ ॥ तेन प्रीणातु भगवान् शिवो गङ्गाधरो विभुः । करोतु शंकरः काश्यां जनानां सन्ततं शिवं ॥ १० ॥ इति सत्यज्ञानानन्दतीर्थयतिना विरचितं गङ्गाष्टकं सम्पूर्णं ॥ Dight red by Google ४७०