पृष्ठम्:काव्यसंग्रहः.pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६८ रामकृष्णविलोमकाव्यं । वादिदेश डिसोतायं पम्याथोयनसेतवे । वेतसेन यथो पापं पन्तासीदिशदे दिवा ॥ ३२॥ वायुजोनुमतो मेने संग्रामे रवितोऽहि वः | वहितो विरमे ग्रास नेमेऽसोऽमनुजो युवा ॥ ३३॥ क्षतायमा यत्र रघोरितायु रंकानुगानल्पवयोऽयनानि । निनाय योवल्पभगानुकारं युतारिघोर जयमायताक्षः ॥ ३४ ॥ तारके रिपुराप श्रीरुचा दासमुतान्वितः । तन्वितासु सदाचारु श्रीपरा पुरिके रता ॥ ३५ ॥ लङ्कारङ्कागाराध्यासं याने मेया काराव्यासे । सेव्या राका यामे नेया संध्या रागाकारं कालं ॥ ३६॥ गोदावरी ब्रह्मगिरेः शकाशात् संप्रापिता प्रागुदद्धिं प्रयत्नात् । येनर्षिणा सोपि पुनः प्रतीम मानेतुमद्रं प्रभवेत्किमेतां ॥ ३७॥ एवं विलोमाक्षरकाव्यकर्तुर् भूयः सभायां समवेक्ष्य तज्ज्ञाः । जानं त्विमां चिचकवित्वसीमां दैवज्ञसूर्याभिधमं प्रदिष्टां ॥ ३८ ॥ इति श्री दैवज्ञपण्डितसूर्यकविविरचितं विलोमाक्षररामकृष्णकाव्यं समाप्तं ॥ Digitzed by Google