पृष्ठम्:काव्यसंग्रहः.pdf/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामकृष्णविलोमकाव्यं । शैलाशिषारुञ्चनताशनाकी पञ्चानने मनभयेस्वभासः ॥ ११ ॥ न वेद यामक्षरभामसीतां का तारका विष्णुजिते विवादे । देवाविते जिष्णुविकारता का तां सीमभारक्षम यादवेन ॥ १२ ॥ तीव्रगोरन्वयचार्यो वैदेहीमनसो मतः । तमसो न महीदेवैर्योचायन्वरगो व्रती ॥ १३ ॥ वेद या पद्मसदनं साधारावततार सा | सारता सव राधा सा नन्दसद्मप यादवे ॥ १४ शैवतो हननेऽरोधी यो देवेषु न्दपोत्सवः । वत्सपो न्नृषु वेदे यो धीरो नेम इतो वशैः ॥ १५ ॥ न गोपगोसि क्षर मे पिनाके नापो जने धर्मधनेन दानं । नन्दानने धर्मधने जपो ना के नापि मे रक्षसि गोपगोनः ॥ १६ ॥ तमान दाम प्रमदा पदाय नेमे रुचामस्वन सुन्दराक्षी । क्षीरादसुं न स्वमचारु मेने यदापदाम प्रमदा न तातः ॥ १७ ॥ तामितो मत्तसूत्रामा शापादेष विमानतां । तां नगाविषद पाशा माचा सूत्तमतो मिता ॥ १८ ॥ २ म Sired by ४६५ by Google