पृष्ठम्:काव्यसंग्रहः.pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामकृष्णविलोमकाव्यं । तं भूसुतामुक्तिमुदारहासं वन्दे यतो भव्यभवं दयाश्रीः । श्रीयादवं भव्यभतोयदेवं संहारदा मुक्तिमुतासुभूतं ॥ १ ॥ चिरं विरंचिर्न चिरं विरंचिः साकारता सत्यसतारका सा । साकारता सत्यसतारका सा चिरं विरंचिर्न चिरं विरंचिः ॥ २ ॥ तामसीत्यसति सत्यसीमता माययाक्षमसमक्षयायमा । माययाक्षमसमक्षयायमा तामसीत्यसति सत्यसीमता ॥ ३ ॥ का तापनी तारकाचा विपापा चेधा विद्या नोष्णकृत्यं निवासे । सेवा नित्यं कृष्णनोद्या विधाषे पापाविद्याकारताघ्नी पताका ॥ ४ ॥ higt: red by Google ४६३