पृष्ठम्:काव्यसंग्रहः.pdf/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृन्दावनयमकं । कार्मुकवलयमनूनं दिशसि यतोषितोसि बलयमनूनं । इत्याशामुखरतया धनराज्या हरिरिवोच्यते मुखरतया ॥४३॥ न तवोपरिवर्हेण ग्रथिताभरणस्य गोपपरिवर्हेण । छायामसितापघनः सुरचापांकः परैरकसितापघनः ॥ ४४ ॥ इतगिरिधातुरसङ्गा रुध्वा तव भुजसमोर्मिधातुरसङ्गा । कुलानि खनद्यमुना वहति जलमसौ विसर्पति खनद्यमुना ॥ ४५ ॥ पवनैरजसा ध्वस्तं विभ्राणां नीपमात्मरजसा ध्वस्तं । पश्यैकान्ततरलतां स्थलीमितां वर्हियोगकान्ततरलतां ॥ ४६॥ वसने संस्तवन नवा जेतुमलममोघ संस्तवन नवा | मधुकरविश्वसितानि स्मितमिह कुटजानि जनितविश्वसितानि ॥४७॥ मारुतवेगाहुणवन्नवशशिखण्डानां शुकापांगविडम्बितनवशशिखण्डानां । Digitzed by Google ४६१