पृष्ठम्:काव्यसंग्रहः.pdf/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृन्दावनयमकं । धृतकामधुरैर् मधुरैर् भ्रमरेभ्यो मुदितवलकुलैर्वकुलैः । क्षतकेशिशिराः शिशिराः स्थलीर्युताः प्रायसोऽस्तसुरभीः सुरभीः ॥ ३२ ॥ ता वृषभरणाभरणा स्तेनयुताः स्वयमिवांजनभसा नभसा | रेजुः सुतरां सुतरां यमुनामभितः सर्वजुललता ललता ॥ ३३ ॥ श्रेष्टपदारोहिण्याः सुतोप्यलंध्यमहिमा पदारोहिय्याः । प्राप्य शरीरं रंतुं गां युतिश्च स इवागतः शरीरं तुंगां ॥ ३४ ॥ निचुलवतीं ककुभानां समो मतिक्षांतिकान्तिभिः ककुभानां । अंशेन स्वनवद्यां अजं वहन्नपिवदलिकुलं स्वनवच्चां ॥ ३५ ॥ हथ्योढवलासितया लिम्पन्निव दिङ्मुखानि धवलासितया । बहुधा पवनेच्छायां प्रादृषि मेघानुयातपवनेच्छायां ॥ ३६॥ अथ स वलक्षोभानां पतिरिव कर्तारमरिवलक्षीभानां । nigi. red by Google ४५६.