पृष्ठम्:काव्यसंग्रहः.pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृन्दावनयमकं । भ्रमर दश कदम्बरजः त्वमितीय वदन् स्वनादशकदम्बरजः। हंतं विभ्रमरहितां नलिनीं पथिकाङ्गनाश्च विभ्रमरहितां ॥ २१ ॥ ज्योत्सालं घनमलिना न वभौ क्रियते स्म कुटजलंघनमलिना । बलवानवपुरोइन् हास नदीतटांच नवपूरोऽहम् ॥ २२ ॥ शिखिषु समुत्सु कमनसो गतिहरमुञ्चति च खे समुत्सुकमनसः । व्यमुञ्चनपवनजवना वापोसाञ्च न पवनजवनाः ॥ २३ । शब्दो नादेयानां कलुषतया नो शशाम नादेयानां । फेनो वा नीराणां आकृष्टोभयतटान्तवानीराणां ॥ २४ ॥ प्राप्य सखद्योतायां निशि विद्युजितमरुत्सखद्योतायां । प्रियतमसदनं गेहा दवला भयमुत्ससर्ज सदनंगेहा ॥ २५ ॥ पर्वतकटकेशानां नीपरजःकपिलकुम्भकटकेशानां । २भ २. भg red by Google Digized 58 ४५७