पृष्ठम्:काव्यसंग्रहः.pdf/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृन्दावनयमकं । भरत इव विभावसवः सर्वेषां प्राणिनामय विभावसवः ! यस्मिन्वसुधामवति स्थिरा वभुबुः समाश्च वसुधामवति ॥ १० अनुकृत्य रघो राज्ञः प्रत्याख्याताशनः प्रभुरघो राज्ञः । योगिभिरित्यस्तमितः केशवमाप्रोमि नाथमस्तमितः ॥ ११ तस्येयमकार्येभ्यश च्युतेन तनयेन रचितयमकार्येभ्यः । दत्ता वाक् स्वाकृतिना मानांकन हरिसंश्रया स्वाकृतिना ॥ १२ ॥ अथ जग्मतुरुरुमत्तौ वयसा वृन्दावनांतरं रुरुमत्तौ । हरिराहितकुमुदसितः स्निग्धतराङ्गस्तथा हली कुमुदसितः ॥ १३ ॥ उदधिपयोनिर्घोषं तत्र निवेश्याच्युतोऽपयोनिर्घोषं । अविचिंतितकं सवलश् चचार भेजे च यामुनकं सवलः ॥ १४ ॥ प्रियसुहृदामोदरयोर् ललतो रथरौहिणेयदामोरयोः । nigl: red by Google ४५५