पृष्ठम्:काव्यसंग्रहः.pdf/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५४ वृन्दावनयमकं । कपिमकरीदसुरहितं दिविदं दृढमुष्टिताडनादसुरहितं ॥ ४ ॥ पानपरंपरा भेजे यं रेवती जितपरंपरया । विवतमालानाभौ वाचूमनकुसुमाञ्च माला नाभौ ॥ ५ ॥ यो रूढमदारुण्या तम्बा प्रणतं प्रतिदिषमदारुणया । कर्षितदानवकुलया विबभौ गंधविजितेभदानवकुलया ॥ ६ ॥ ग्रहपतिरिव हिमहीनः कांत्याभूदुग्रसेन इति हि महीनः । प्रकृतिभिररिडेतीह स्वयं दृत्तः संहताभिररिहेतीहः ॥ ७ ॥ बलभिदरीभागानां जेता विंध्यर्क्षवदरीभागानां । शौकल्या दाशार्हस्य प्रभवो यशसः समञ्च दाशार्हस्य ॥ ८ ॥ यो भोक्तेव सुधायाः वर्णकविः शशिता च वसुधायाः । यस्य परामुद्धीनां तटेषु दतिं प्रचक्षते मुदधीनां ॥ ८ ॥ Pigt: red by Google