पृष्ठम्:काव्यसंग्रहः.pdf/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृन्दावनयमकं । वरदाय नमो हरये पतति जनो यं स्मरन्नपि न मोहरये । बहुशचक्रं दहता मनसि दितिर् येन दैत्यचक्रं दहता ॥ १ ॥ स्वमिव भुजं गवि शेषं व्युपधाय स्वपिति यो भुजंगविशेषं । नवपुष्करसमकरया श्रीयोर्मि पंक्त्या च सेवितः समकरया ॥ २ ॥ येन च बलिरसुरोधः समवस्थापितः क्षितेरसुरोधः । पृथुकः सन्निभवदनः चिक्षेप च यः सरोजसन्निभवदनः ॥ ३ ॥ विशेषकं ॥ स्तौमि च लाङ्गलवंतं देवं यः संयुगे च लाजलवंतं । Digized by Google ४५३