पृष्ठम्:काव्यसंग्रहः.pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५० वृन्दावनशतकं | अपि प्रेमौतकख्यात्क्षितिषु विलुठत् स्वं वपुरिदं करेण स्पृदा मामनुचरयते राधा मिषयुता । अहो दृन्दारण्येद्भुतमहिमसीमन्यपि सुदुर् घटाशा काप्येका समुदयति हा किं न भविता ॥११३ ॥ कदा वा कालिन्दीतटनिकटतृन्दावनलता निकुब्रान्तः सुप्तं तदतिसरसं प्रेष्ठमिथुनं । मिथो गाढास्विष्टं मृदु मृदु मया लालितपदं मुदा वीक्षे स्वप्रेष्यहद सुखनिद्रागतमहं ॥ ११४ ॥ महाश्चर्यानन्तस्वमहिमवलादेव सकला धमस्याप्याशानां व्यतिकरमसम्भाव्यमपि मे । कदा हृन्दारण्यं स्ववसतिकथामाचनिवहत् कृपापूरं संपूरयतु परतोष्यर्बुदजनेः ॥ ११५ ॥ स्वकर्मश्रोतोभिः सततमभितञ्चालितममुं प्रभो जीवं यत्र क्वचिदपि न यात्यन्त विवश | पर न्वेतावन्मे भवतु भवदुःखार्दितहृदो प्यविश्रान्तं दृन्दावनपदपरे वास्तुरसना ॥ ११६ ॥ न सत्यास्ये लोके स्पृहयति मनो ब्रह्मपदवीं न वैकुण्ठे विष्णोरपि मृगयते पार्षदतनुं । अपि श्रीवृन्दावनसरसभावोत्सवरतां निवासे धन्यानां सुषहुकमिजम्मापि मनुते ॥ ११७ ॥ श्रीमहन्दाविपिनकुसुमामोदवादी समीरो यस्मिन् देशे सरति तदवच्छिमकृष्णाबुतो वा । Digized by Google