पृष्ठम्:काव्यसंग्रहः.pdf/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृन्दावनशतकं | येषां वृन्दावनमनुसलडीवया संगतं वा तत्रैवास्तां मम खलु जनिईन्त तेषां गृहेपि ॥ ११८ ॥ ममापि स्यादेतादृशमपि दिनं किन्नु परमं यदा वृन्दाटव्याः कथमपि कृतस्पर्शनमपि । देहंदूरादपि समवलोक्यापि जनुषां मुहुर्धन्यं मन्येधरणि पतितः स्यां कृतनतिः ॥ ११९ यदपि च मम नास्ति श्रीलदृन्दावनीये महिमान न समोर्चे हन्त विश्वासगन्धः । यदपि मम न तस्मिन्नास्ति वासैषनापि . प्रसरतु मम तादृश्येव वाणी तथापि ॥ १२० ॥ अचैतन्यप्रायं जगदिदमहो सर्वविदपि प्रथीयः श्रीवृन्दावनमहिमवीजाज्जनिमतिः । हो भ्राम्यदृष्ट्वा विविधसदसह मसु तथा न पूर्णं स्याञ्चित्तं परमिह निषेवे पदरजः ॥ १२१ ॥ हा वृन्दावन हा महारसमय प्रेमैकसम्पन्निधे हा राधावति नागरस्मरकला साक्षिन्मदेकप्रिय । रासेश्वरविश्वमूर्छनलतावल्लीखगाद्यद्भुत छा ४५१ श्रीमद्दाप्रकृतेः परादपि पर त्वं मे गतिस्त्वंगतिः ॥ १२२ ॥ नमोस्तु वृन्दावनसुन्दराभ्यां नमोस्तु वृन्दावनविभ्रमाभ्यां । नमोस्तु वृन्दावनजीवनाभ्यां नमोस्तु वृन्दावननागराभ्यां ॥ १२३ ॥ Digitized by Google