पृष्ठम्:काव्यसंग्रहः.pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृन्दावनशतकं । सकलविभवसारं सर्वधर्म कसारं सकलभजनसारं सर्वसिद्धैकसारं । सकलमहिमसारं वस्तु वृन्दावनान्तः सकलमधुरिमाम्भोरासिसारं विहारं ॥ ८५ ॥ दैवी वाक् प्रतिषेधिनी भवतु मे स्यादा गुरूणां गिरां श्रेणी शास्त्रविदामिहास्तु बहुधा यः कोपि कोलाइलः । त्यक्वा साधनसाध्यजातमखिलं लगेन्नु मे राधिका क्रोडाकाननवाससम्पदि मनाक् व्यावर्तते नो मनः॥८६॥ प्रगायन्त्रटन्नु जस्तन्नालुठन् वप्रे धावन् रुदन् सम्यत् मूर्छितो वा । कदा वा महाप्रेममाध्वीमदान्धस् यिरष्यामि वृन्दावने लोकवायः ॥ ८७ | न लोकं न धर्मं न गेहं न देहं न निन्दा स्तुतिर् वापि सौख्यं न दुःखं । विजानन् किमप्युम्मदप्रेममाध्वया ग्रहग्रस्तवत् कर्हि वृन्दावने स्यां ॥ ८८ ॥ हरे कृष्ण कृष्णेति कृष्णेति मुख्यान् महाचर्यनामावलीसिइमन्त्रान् । कृपामूर्तिचैतन्यदेवेन गीतान् कदाभ्यस्य वृन्दावने स्यां कृतार्थः ॥ ८८ ॥ हैमस्फाटिकपद्मरागरचितैर माहेन्द्रनीले मैर् नानारत्नमयस्थलीभिरलिभिझङ्काररितोइल्लिभिः । ४४५ Digitzed by Google