पृष्ठम्:काव्यसंग्रहः.pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हृन्दावमशतकं । श्रीराधायाः कनकरुचिरज्योतिरङ्गच्छटौघैः शुद्धप्रेमोज्जलरसमयैः सेव्यमानं समन्तात् । गोविन्दस्याम्बुदरुचितनोर्ज्योतिरम्भोधिपूरैः सान्द्रानन्दात्मभिरपि चितं नौमि वृन्दावनं तत् ॥ ७४ ॥ निन्दा वा स्तुतिरेव वा बहुविपत् सम्पत्तिरेवास्तु वा पाण्डित्यं वत मूर्खतापि यदि वा रागोविरागोथवा । यत् किंचिद्भवतु श्रुतेरपि मनाम्लक्ष्यं न यद्वैभवं सहन्दाविपिनं न जीवनमहं स्वप्नेपि हातुंक्षमः ॥७५ ॥ चाण्डालश्वखरादिवा यदि जनाः कुर्वन्ति सर्वे तिरस्कार दुर्विषहंच तेन नहि मे खेदोस्थनीयानपि । देवा देव्य इमे च भूतमिषाः प्रासाथ दगुर्महा खेहात्तुष्टिमतो न मे गुरुतृषा वृन्दावनीये बसे । ७६ ॥ भ्रातः समस्तान्यपि साधनानि विहाय वृन्दावनमाश्रयस्ख । यथा तथा प्राक्तनवासनावसात् शरीरवानी हृदयं विचेष्टतां ॥ ७७ ॥ तादृक् कालो भवतु भगवान् येन कस्यांचि देनी दृश्या शक्तोय्यदह न वहिर्यामि वृन्दाटवीतः । ताहक् दम्भोप्युदयतु तथाइंकृतिश्चापि मे स्याद् ये नाप्यस्मिन्वसमयवने रोचयेनित्यवासं ॥ ७८ ॥ वरं हृन्दारण्ये हरि हरि करेखपरभृतो भ्रमामो भैक्षार्थं स्वपचग्रहवीथीषु दिनशः । by Google ४४३ Digi: zed by