पृष्ठम्:काव्यसंग्रहः.pdf/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ हृन्दावनशतकं । यत्र श्रीहरिदासवर्यवनिताः खदायमानाः शिलास तद् वृन्दावनमद्भुतं सुखमयं को नाम नालम्बते १६८॥ विन्दन्ति यावत् प्रख्यं न मन्दा वृन्दावने प्रेमविलासकन्दे । तावन्न गोविन्दपदारविन्द स्वच्छन्दसद्भक्तिरहस्यलाभः ॥ ६८ ॥ स्मारं स्मारं नवजलधरश्यामलं धाम विद्युत् कोटिज्योतिस्तनुलतिकया राधयाविष्यमाणं । उचैरुचैः सरससरसी प्राणवी जृम्भमाण प्रेमाविष्टो भ्रमति सुकृती कोपि हृन्दावनान्तः ॥ ७० ॥ राधापदाङ्कभूषित वृन्दारण्य स्थलीषु निर्भरप्रेमा हरि हरि । कदा लुठामि प्रतिपद गलदश्रुरुल्लसत्पुलकः ॥ ७१ ॥ पूर्णोज्वलत्प्रेमरसैकमूर्तिर् यत्रैव राधाविजवी हरीति । तदेव वृन्दावनमाश्रितानां भवेत् परं भक्तिरहस्यलाभः ॥ ७२ ॥ सर्वं त्यक्ता सरसविशदप्रेमपीयूषसान्द्रे नृन्दारण्येङ्गततरुलतागुल्मकाद्यैर् मनोज्ञे । राधाकृष्णोज्यलगुणगणोदानमत्तालिकारैर् नीरेणापि स्थितिमिह तनोरथ्यवस्था वसन्तु ॥ ७३ ॥

Digi zed by Google