पृष्ठम्:काव्यसंग्रहः.pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृन्दावनशतकं । ४३८ अजितेन्द्रियस्य कृपया मम वृन्दारण्यमाश्रयो भवतु ॥ ५१ ॥ राधामाधवपादपङ्कजरजःप्रेमोन्मदैतत्प्रिय क्रीडाकाननवासिषु स्थिरचरप्राणिष्ठपि द्रोहिषु । प्रदेषं परमापराधमद्दछ त्यक्तेतरैरप्यघैर् युक्तोप्यामरणान्तलब्धवसतिर् वृन्दावने स्यात् कृती ॥५२॥ न लोकवेदोइतमार्गभेदैर् आविश्य संकियत रे विमूढाः । हटेन सर्वं परिहृत्य वृन्दा वनान्तरे पर्णकुटीं कुरुध्वं ॥ ५३ ॥ यत्तद्दस्कन्तु शास्त्राण्यहह जनतया गृह्यतां यत्तदेव स्वं स्वं यत्तन्मतं स्थापयतु लघुमतिस्तर्कमाचे प्रवीणः । अस्माकं तूज्वलैकोन्मदविमलरसप्रेमपीयूषमूर्तेः श्रीराधायाविहाराटविमिहनविनान्यत्र निर्यातिचेतः ५४॥ स्निग्धश्यामाभिरामच्छविमृदुमसृनोत्तप्तहेमावदातं ज्योतिरद्दन्दकिशोराकृतिमधुरम्हो घूर्णमानं रसेन । नित्यं यचैव खेलायति मदनकस्लाकौतुकेनात्युदारं सारं सारादशेषादवतुदशदिशः श्रीलदृन्दावनं नः ॥ ५५ ॥ अपारकरुणाकरं ब्रजविलासिनीनागर मुहुः सुबहुकाकुभिर्नतिभिरेतदभ्यर्थये । अनर्गलवहन्महाप्रणयसीधुसिन्धौ मम क्वचिज्जनुषि जायतां रतिरिचैव वृन्दावने ॥ ५६ ॥ Tigic red by Google