पृष्ठम्:काव्यसंग्रहः.pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृन्दावनशतकं । हा इन्त इन्त न तथापि ममेह भूयाद् उन्दावनादितरतीर्थपदे यियासा ॥ १८ ॥ स्वयं पतितपंचकणाम्मृतवत् क्षुधाभक्षयन् सदा मिहिरनन्दिनीशुचिपयोञ्जलीभिः पिवन् । कदा मधुरराधिकारमखरासकेलिस्थतिं विलोक्य रसशेवधिमधिवसामि वृन्दावनं ॥ १८ ॥ भूमिर्यच सुकोमला बहुविधप्रद्योतिरत्नछटा नानाचित्रमनोहरं खगमृगाद्याञ्चर्यरागान्वितं । वल्लीभूरुहजातयोद्भुततमा यष प्रधानादिभिस् तन्मे नन्दकिशोरकेलिभवनं वृन्दावनं जीवनं ॥ २० ॥ साक्षादिवास्ते पुरुषोत्तमांधि सेवारसादप्यधिको रसौधः । स्यन्देत हृन्दाविपिनेप्यदृष्टो राधाप्रियो यो भुवनस्य साक्षी ॥ २१ ॥ जागर्ति दुन्दुभिरवः परमोच राधा वृन्दावनं वनमतिप्रकटं पुराणे | तस्याविधेयमसमोचमहानुराग मूर्तेस्तदननमत्यही प्रेत्य हरिं क पश्ये ॥ २२ ॥ मिलन्तु चिन्तामणिकोटिकोटयः स्वयं वहिर्हष्टिभुपैतु वा हरिः । तथापि हृन्दावनधूलिधूसरं न देहमन्यत्र कदापि यातु मे ॥ २३ ॥ प 35 ४३३ Google