पृष्ठम्:काव्यसंग्रहः.pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३० वृन्दावनशतकं । नमस्तस्मै कस्मैचिदपि पुरुषायाद्भुत महा महिने विभ्राजत्कनकरुचिधाम्ने स्वकृपया | असोचेनैव श्रपचमखिलेभ्यः स्वयमहो ददौ यत्तद्भक्तिं विमलतरनानारसमयीं ॥ १ ॥ यस्मिन्न प्रविशेम्मनोपि महतां का तत्त्वार्ता पुनः शास्त्राणां ज्ञपितंच यद्भगवता भंगैव भक्कोहवे । तहन्दावनमुन्मदेन रसिकइंडेन केनाप्यहो नित्यक्रीडतया सृहीतमिह के वियुर्न गौरप्रियाः ॥ २॥ गुणैः सर्वैनोप्यहमखिलजीवाधमतमो प्यशेषैर् दोषाग्यैरपिच वलितो दुर्मतिरपि । प्रसादात्तस्यैवाविदमहह राधां ब्रजपतेः कुमारं श्रीदृन्दावनमपि स गौरो मम गतिः ॥ ३॥ श्रीवृन्दावनकेलिरसहजं सौन्दर्यशोभावयो वैदग्ध्यादिचमत्कृतेः परतरं विश्रान्तिधामाद्भुतं । तन्मेमोहनदिव्यनागरवरदंदं मिथो जीवनं गौरश्यामलमुज्वलोम्मदरसाविष्टं हृदि स्फुर्जतु ॥ ४ ॥ दूध भ्रामं भ्रामं जगति नहि गन्धोपि कलितो यदीयस्तषै बाखिलनिगमदुर्लक्षशरणौ । Digized by Google