पृष्ठम्:काव्यसंग्रहः.pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शान्तिशतकं । अभूमिर्दपणामहमपसरत्वं पिशुन हे । अरे क्रोध स्थानान्तरमनुसरानन्यमनसां चिलोकीनाथो नो हृदि वसतु देवो हरिरसौ ॥ २२ ॥ मातर्माये भगिनि कुमते हे पितर्मोहजाल व्यावर्तध्वं भवतु भवतामेष दीर्घो वियोगः । सद्यो लक्ष्मीरमणचरणभ्रष्टगङ्गाप्रवाह व्यामिश्रायां दृशदि परमब्रह्मदृष्टिर्भवामि ॥ २३ ॥ आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैर् बहुकार्यकारणशतैः कालोपि न ज्ञायते दृष्ट्वा जम्मजरावियोगमरणं चासश्च नोत्पद्यते पीत्वा मोहमयीं प्रमोदमदिरामुन्मत्तभूतं जगत् ॥ २४ ॥ मातर्मेदिनि तातमारुत सखे ज्योतिः सुबन्धो जल भ्रातर्व्योम निवड एष भवतामस्तु प्रणामाञ्ञ्जलिः । युष्मत्सङ्गवशोपजातसुकृतोद्रेक स्फुरन्निर्मल ज्ञानापास्तसमस्तमोहमहिसा लीये परे ब्रह्मणि ॥ २५ ॥ आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला रागग्राहवती वितर्कविहगा धैर्यद्रमध्वंसिनी । मोहावर्तसुदुस्तरा प्रकटितप्रोत्सुङ्गचिन्तातटी तस्याः पारगता विशुद्ध मनसो नन्दन्ति योगीश्वराः ॥ २६ ॥ इति शान्तिशतके ब्रह्मप्राप्तिर् नाम चतुर्थः परिच्छेदः संपूर्णः ॥ ० ४.० ॥ Digized by Google ४२६