पृष्ठम्:काव्यसंग्रहः.pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ शान्तिशतकं । दातुं दानवरं शरण्य मभयं स्वच्छं पितृभ्यो जलं । पूजार्थं परमेश्वरस्य विमलः स्वाध्याययज्ञः परं क्षुद्ध्याधेः फलमूलमस्ति शमणं केशात्मकैः किं धनैः ॥ ५ ॥ सन्ति स्वादुफला वनेषु तरवः स्वच्छं पयो निर्झरं वासोवस्कलमाश्रयो गिरिगुहा शय्यालतावल्लरी । आलोकाय निशासु चन्द्रकिरणाः सख्यं कुरः सह स्वाधीने विभवेष्यहो नरपतिं सेवन्त इत्यद्भुतं ॥ ६ ॥ पाणिः पाचं पविचं भ्रमणपरिगतं भैक्षमस्यय्यमन्त्रं वस्त्रं विस्तीर्ण माशादशकममलिनं तल्यमस्वपल्यमुर्वी । येषां निःषङ्गताङ्गीकरणपरिचितिः स्वान्त संतोषणस्ते धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्मनिर्मूलयन्ति ॥७॥ महाशय्या भूमिर्मसृणमुपधानं भुजलता वितानंचाकाशं व्यजनमनुकूलोऽयमनिलः । स्फुरञ्चन्द्री दीपः स्वष्टतिवनितासङ्गमुदितः सुखं शान्तः शेते विगतभवभीतिर् नृपइव ॥ ८ ॥ धैर्यं यस्य पीता क्षमा च जननी शान्तिश्चिरं गेहीनी सत्यं सूनुरयं दया च भगिनी भ्राता मनःसंयमः । शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनं यस्यैते हि कुटुम्बिनो बद सखे कस्मात् भयं योगिनः ॥९॥ धिक् धिक् तान् कमिनिविशेषषपुषः स्फुर्जन्महासिहयो निष्पन्दीकृतशान्तयोपि च तमःकारागृहेष्वासते । तं विद्वांसमिह स्तुमः करपुटीभिज्ञानशाकेपि वा Digized by by Google