पृष्ठम्:काव्यसंग्रहः.pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शान्तिशतकं । नन्दप्रयत्नसुलभोऽयममुग्रहो मे । श्रेयोर्थिनोहि पुरुषाः परतुष्टिहेतोर् दुःखार्जितान्यपि धनानि परित्यजन्ति ॥ ८ ॥ स्वधर्मपीडामपहाय योऽयं मत्यापशुयर्थमिह प्रवृत्तः । न चेत् क्षमामप्यहमस्य कुय मत्तः कृतघ्नो वद कीदृशोऽन्यः ॥ ८ ॥ कञ्चित् पुमान् क्षिपति मां प्रतिरुक्षवाक्यैः सोऽहं क्षमाभवनमेत्य मुदं प्रयामि । शोकं ब्रजामि पुनरेवमयं तपस्वी चारिचतः स्खलितवानिति मन्निमित्तं ॥ १० ॥ आत्मात्मन्यवधीयतां गृहवसाह्रैराग्यमाधीयतां वन्धुभ्यो व्यवधीयतां सुरसरितीरे सदा स्थीयतां । भिक्षार्थं व्यवसीयतां प्रतिदिनं सत्कर्म संचीयतां कोपश्चेतसि हीयतां परतरं ब्रह्मानुसन्धीयतां ॥ ११ ॥ यत् क्षान्तिः समये श्रुतिः शिव शिवेत्युक्तौ मनोनिर्वृतिर् भैक्षे चाभिरुचिर् धनेषु विरतिः शश्वत्समाधौ रतिः । एकान्ते वसतिर् गुरौ प्रतिनतिः सद्भिः समं सङ्गतिः सत्वे प्रीतिरनइनिर्जितिरसौ सन्मुक्तिमार्गे स्थितिः ॥१२॥ सम्भोगादिषयाभिषस्य परितस्तैमित्यमस्ताखिल ज्ञानोन्मेषतया कथं तव भवेदात्मास्पदं देहिनः । साध्यं तहि तदेव साधनमितो व्यावृत्तिरेवामिषात् Digit:zed by Google ४२२