पृष्ठम्:काव्यसंग्रहः.pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शन्तिशतकं । ४२१ तदिह महतां कोयं मोहो यदेष मदाविलः ॥ २ ॥ अवश्यं यातारस्चिरतरमुषित्वापि विषया वियोगे को भेदत्यजति न जनो यत् स्वयमिमान् । ब्रजन्तः स्वातन्त्र्यात् परमपरितापाय मनसः स्वयं मुक्ता येते शमसुखमनन्तं विदधति ॥ ३ ॥ भवारण्यं भीमं तनुग्रहमिदं छिद्रबहुलं वली कालञ्चौरो नियतमसिता मोहरजनी । गृहीत्वा ज्ञानासिं विरतिफलकं लकवचं समाधानं कृत्वा स्थिरतरहशो जागृत जनाः ॥ गृहे पर्यन्तस्थे द्रविणकणमोघं श्रुतवता स्ववेश्मान्यारक्षा क्रियत इति मार्गोऽयमुचितः । नरान् गेहात् गेहात् प्रतिदिवसमाकृष्य नयतः कृतान्तात् किं शङ्का नहि भवति रे जागृत जनाः ॥ ५ ॥ के यूयं नो वयमिति च वः के भवामो भवाब्धौ कर्मोर्मीणां विषमयलनैः फेलवत् पुञ्जिताः स्मः । तत्क्षेपीयः क्षयिणि विषये चित्तमाधाय पुत्राः सर्वारम्भैर् लगत जगतामन्तरात्मन्यनन्ते ॥ ६ ॥ सूक्ति' कर्णसुधां व्यनक्तु सुजनस्तस्मिन्न मोदामहे ब्रूतां वाचमसूयको विषमुचं तस्मिन्न खिद्यामहे । या यस्य प्रकृतिः सतां वितनुतां किं नस्तया जायते कुर्मस्तत् खलु कर्मजम्मनिगडच्छेदाय यज्जायते ॥ ७ ॥ मन्निन्दया यदि जनः परितोषमेति Digl: zed by Google