पृष्ठम्:काव्यसंग्रहः.pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शान्तिशतकं । ४१८ मूलानि क्षतये क्षुधां गिरिणदीतोयं तृषाशान्तये । क्रीडामुग्धमृगैर्वयांसि सहृदो नक्तं प्रदीपः शशी स्वाधीने विभवे तथापि कृपणा याचन्त इत्यद्भुतं ॥ १९ ॥ शय्या शादलमासनं शुचिशिला सद्म द्रुमाणामधः शीतं निर्झरवारिपानमशमं कन्दः सहाया मृगाः । इत्यप्रार्थित सर्वलभ्यविभषे दोषोऽयमेको वने दुष्प्रापार्थिनि यत् परार्थघटनायत्रैर्विना स्थीयते ॥२०॥ पूरयित्वार्थिनामाशां प्रियं कृत्वा द्विषामपि । पारं गत्वा श्रुतौघस्य धन्या वनमुपासते ॥ २१ ॥ श्राहारः फलमूलमात्मरचितं शय्या माही वक्कलं संवीताय परिच्छदः कुशसमित् पुष्पामि पुचा मृगाः । वस्त्रान्नाश्रयदानभोगविभवा निर्यन्त्रसाः शाखिनो मित्राणीत्यधिकं गृहेषु गृहिणां किं नाम दुःखाहते ॥ २२ ॥ विवेकः किं सोपि स्वरसजनिता यत्र न कृपा स किं योगो यस्मिन् न भवति परानुग्रहरसः । स किं धर्मो यत्र स्फुरति न परद्रोहविरतिः श्रुतं किं तदास्यादुपशमफलं यन् न भवति ॥ २३ ॥ अग्रे कस्यचिदस्ति कश्चिदभितः केनापि पृष्ठे कृतः संसारः शिशुभावयौवनजराभारावतारादयं । वालस्तं वहुमन्यतामसुलभं प्राप्तं युवा सेवतां दृद्धस्तं विषयादहिष्कृत इव व्यानृत्य किं पश्यति ॥ २४ ॥ पुत्रदारादिसंसारः पुंसां सम्मूढचेतसां । Digitzed by Google