पृष्ठम्:काव्यसंग्रहः.pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१८ शान्तिशतकं । कतिपयपुरस्वाम्ये पुंसां कएष मदज्वरः ॥ १३ ॥ रम्यं हर्म्यतलं न किं वसतये श्राव्यं न गीतादिकं किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये | किन्तु प्रान्तपतत्पतङ्गपवनव्यालोलदीपाकुर छायाचंचलमाकलय्य सकलं सन्तो वनान्तं गताः ॥ १४ ॥ श्रास्तामकंटकमिदं वसुधाधिपत्यं बैलोक्यराज्यमपि तञ्च तृणाय मन्ये । निःशङ्कसुप्तहरणीकुलसलासु चेतः परं वलितशैलवनस्थलीषु ॥ १५ ॥ हरिणचरणक्षुणोपान्ताः सशाइलनिर्झराः कुसुमशवखैर विश्वग्वातैस्तरङ्गितपादपाः । विविधविहगश्रेणीचिचध्वनिप्रतिनादिता मनसि न मुदं केषां दध्युः शिवा वनभूमयः ॥ १६ ॥ ते तीक्ष्णदुर्जननिकारशरैरभिन्ना धीरास्तएव शमसौख्यभुज स्तएव । सीमन्तिनीभुजलतागहनं व्युदस्य येऽवस्थिताः शमफलेषु तपोवनेषु ॥ १७ ॥ कुरङ्गाः कल्याणं प्रतिषिटपमारोग्यमटविं श्रयन्ति क्षेमं ते पुलिनकुशलं भद्रमुपलाः । निशान्तादस्वन्तात् कथमपि विनिष्कान्तमधुना मनोऽस्माकं दीर्घामभिलपति युष्मत्परिचितिं ॥ १८ ॥ वासो वस्कलमास्तरः किशलयान्योकस्तरूणां तलं Google higt: red by C