पृष्ठम्:काव्यसंग्रहः.pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शान्तिशतकं । निरुपमरसप्रीत्या खादन्नरास्थि निरामिषं । सुरपतिमिव पार्श्वस्थं श्वा सशङ्कितमीक्षते गणयति नहि क्षुद्रो लोकः परिग्रहफल्गुतां ॥ ८ ॥ अमीषां जन्तूनां कतिपयनिमेष स्थितिजुषां वियोगे धीराणां कइह परितापस्य विषयः । क्षणादुत्पद्यन्ते विलयमपि यान्ति क्षणममी न केपि स्थातारः सुरगिरिपयोधिप्रभृतयः ॥९॥ पुत्रः स्यादिति दुःखितः सति सुते तस्या मये दुःखितस् तद्दुःखादिकमार्जने तदनये तन्मूर्खतादुःखितः । जातश्चेत् सगुणोऽथ तम्मृतिभयं तस्मिन्मृते दुःखितः पुचव्याजमुपागतो रिपुरयं मा कस्यचिज्जायतां ॥ १०॥ स्थिरापायः कायः प्रणयिषु सुखं स्थैर्यविमुखं महाभोगा रोगाः कुवलयदृशः सर्पसदृशः | महावेशः क्लेशः प्रकृतिचपला श्रीरपि तथा यसः स्मैरी बैरी तदपि न हितं कर्म विहितं ॥ ११ ॥ अर्थं प्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां प्रत्यासन्नभयं न वेत्ति विभवं स्वजीवितं कांक्षति । उत्तीर्णस्तु ततो धनार्थमपरां भूयो विशत्यापदं प्राणानांच धनस्य चाधमधियामन्योन्यभावः पणः ॥ १२ ॥ विमलमतिभिः कैरप्येतज्जगञ्जनितं . पुराविष्टतमपरैर् दत्तं चान्यैर् विजित्य तृणं यथा । इह हि भुवनान्धन्धे वीराचतुर्दश भुञ्जते शुश्रु Google bigized by ४१७