पृष्ठम्:काव्यसंग्रहः.pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१६ शान्तिशतकं । स्वप्नेन्द्रजालसदृशः खलु जीवलोकः ॥ २ ॥ आरम्भः संशयानामविनयभवनं पत्तनं साइसानां दोषाणां सविधानं कपटशतमयं क्षेत्रमप्रत्ययानां । दुख्याज्यं यन्महद्भिः सुरनरः सर्वमायाकरण्डं स्त्रीरूपं केन लोके विषमम्मृतमयं धर्मनाशाय सृष्टं ॥ ३ ॥ यदा प्रकृत्यैष जनस्य रागिनो भृशं प्रदीप्तो हृदि मन्मथानलः । तदाच भूयः किमनर्थपण्डितैः कुकाव्यहव्याहुतयो निवेशिताः ॥ ४ ॥ दधति तावदमी विषयाः सुखं स्फुरति यावदियं हृदिमूढता । मनसि तत्वविदान्तु विवेचके. क्व विषयाः क्व सुखं व परिग्रहः ॥ ५ ॥ यदा पूर्वं मासीदुपरि च तथा नैव भविता तदा मध्यावस्था क्षणपरिचयो भूतनिचयः । अतः संयोगेऽस्मिन् परिणतिवियोगे च सहजे किमाधारप्रेमाः किमधिकरणाः सन्तु च शुचः ॥ ६ ॥ इन्द्रस्याशुचिशूकरस्य च सुखे दुःखे च नास्त्यन्तरं स्वेच्छाकल्पनया तयोः खलु सुधा विष्ठा च काम्याशनं । रम्भा चाशुचिशूकरी च परमप्रेमास्पदं मृत्युतः संचासोपि समः स्वकर्ममतिभिञ्चान्योन्यभावः समः ॥७॥ क्चमिकुलचितं लालाकीर्णे विगन्धि जुगुस्थितं Digitized by Google