पृष्ठम्:काव्यसंग्रहः.pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शन्तिशतकं । कैतदक्लारविन्दं च तदधरमधु क्वायतास्ते कटाक्षाः कालायाः कोमलास्ते क्वच मदनधनुर्भङ्गुरो भूविलासः । इत्थं खट्टाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्समीरं रागान्धानामिवोच्चैरुपहसति महामोहजालं कपालं २७॥ शृणु हृदय रहस्यं यत् प्रशस्तं मुनीनां न खस्नु न खलु योषित्सन्निधिः सम्बिधेयः । छरति हि इरिणाक्षी क्षिप्रमक्षिक्षुरप्र प्रहतशमतनुचं चित्तमप्युत्तमानां ॥ २८ ॥ समाविष्यत्युञ्चैर् घनपिशितपिण्डं स्तनधिया मुखं लालाक्लिन्नं पिवति चषकं सासवमिव । अमेध्यक्लेदार्द्रे पथि च रमतेस्पर्शरसिको महामोहान्धानां किमपि रमणीयं न भवति ॥ २८ ॥ इति शान्तिशतके परीतापोपशमोनाम प्रथमः परिच्छेदः ॥ १ ॥ अयमविचारितचारुतया संसारोभाति रमणीयः । पुनः परमार्थहरण न किमपि सारमणीयः ॥ १ ॥ केनाप्यनर्थरुचिना कपटं प्रयुक्तम् एतत् सुहृत्तनयवन्धुमयं विचित्रं । कस्याच कः परिजनः स्वजनो अनोवा by Google Digitzed by ४१५