पृष्ठम्:काव्यसंग्रहः.pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शान्तिशतक ।

४११

धण्यानां गिरिकन्दरोदरभुवि ज्योतिः परं ध्यायताम्

श्रानन्दाश्रुजलं पिवन्ति शकुना निःशङ्गमङ्गे स्थिताः । अस्माकन्तु मनोरथोपरचितप्रासादवापीतट

क्रीडाकाननकेलिमण्डपयुषामायुः परं क्षीयते ॥ ५ ॥

विशीर्नः प्रारग्भेो वपुरपि जराव्याधिविधुरं गतं दूरे विप्रस्वजनभरणं वांछितमपि । इदानीं व्यामोहादहह विपरीते हतविधौ

विधेयं यत्तत्त्वं स्फुरति मम नाद्यापि ह्रदये ॥ ६ ॥ वीभत्साः प्रतिभान्ति किन्त्र विषयाः किन्तु स्फूहा युष्मती

देहस्यापचयो मतौ निविशते गाढो गृहेषु ग्रहः । ब्रह्योपास्यमिति स्फुरत्यपि हृदि व्यावर्तिका वासना का नामेयमतक्र्यहेतुगहना दैवी सतां यातना ॥ ७ ॥ अजानन्दाहातैि विशति शखभो दीपदहनं न मीनोपि ज्ञात्वा छतवडिशमश्नाति पिशितं ।

विज्ञानन्तोप्येतान् वयमिह विपञ्जालजटिलान्

न मुच्चामः कामानहह गहनो मोहमहिमा ॥ ८ ॥ श्रान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः

सोढा दुःसहशीतवाततपनज्ञेशा न तप्तन्तपः । ध्यातं वित्तमहर्निशं नच पुनर्विष्णोः पदं शाश्वतं तत् तत् कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वेचितं ॥ ९ ॥ छत्वा शस्त्रविभीषिकां कतिपयग्रामेषु दीनाः प्रजा मथुन्तीविटजख्यितैरुपहता छौणीभुजस्ते किल ।