पृष्ठम्:काव्यसंग्रहः.pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१०

शान्तिशतक । -→*$०€

नमस्यामो देवान् ननु हतविधेस्तेपि वशगा विधिर्वेद्यः सोपि प्रतिनियतकर्मेकफलदः । फलं कर्मायत्तं किममरगणैः किंच विधिना

नमस्तत् कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ १ ॥ यदि शान्तौ मनो देयं

यदा मुक्तिपदे रतिः । तदा शिङ्खनमिश्रस्य पदमारभ्यतां धिया ॥ २ ॥

सन्तोषसन्ततिकरं विदुषां कवीनां सांसारिकाप्रतिमदुःखविनाशवीजं । यत्नेन शान्तिशतकं विदधे विवेकी

श्रीशिङ्खनः प्रकृतिसुन्दरशुडवुडिः ॥ ३ ॥

श्रात्मज्ञानविवेकनिर्मखधियः कुर्वन्यच्चो दुष्करं यन्मुच्चन्युपभोगभांज्यपि धनान्येकान्ततो निस्पृहाः । न प्राप्तानि पुरा न संप्रति न च प्राप्तौ दृढप्रत्यया वांछामाचपरिग्रहाण्यपि वयं त्यक्तुं न तानि क्षमाः ॥४॥