पृष्ठम्:काव्यसंग्रहः.pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पदाङ्कदूतः बौद्धस्यैतन्मतविटपिनो मूलमाच्छादितं स्यात् मुद्भिस्तस्यान्टतवचनतो यन्मया पूर्वमुक्तं । यद्यस्माकं सततमतनोः शायकक्षुनदेहः प्रामाण्ये स्यात् कुसुमविशिखोस्तीति वाक्ये न साक्षी ॥४४॥ मूर्खा एवं क्षणिकमनिशं विश्वमाहर्न धीराः खेदोऽस्माकं इरिविरहजः सर्वदेवास्ति चित्ते । नान्त्यः शब्दो वचनमपि यत्तादृशं तस्य किन्तु प्रेमैवास्मत्प्रियतमकृतं तच गोपाङ्गनासु ॥ ४५ ॥ शाके शायकवेदषोडशमिते श्रीकृष्ण शर्मार्पयन् आनन्दप्रदनन्दनन्दनपदद्दन्दारविन्दं हृदि । चक्रे कृष्णपदाङ्कदूतरचनं विडम्मनोरञ्जनं श्रीलश्रीयुतरामजीवनमहाराजाधिराजाहतः ॥ ४६॥ इति महामहोपाध्यायश्रीकृष्ण सार्वभौमविरचितं पदाङ्कदूतकाव्यं समाप्तं ॥ ● ॥ higic red by Google ४०६