पृष्ठम्:काव्यसंग्रहः.pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०८ पदामदूतः । किञ्चास्माकं नयनसलिलैर्वते चेम्वदीयं केन स्थेयं द्रुतगतिजलैराचिते कुममध्ये ॥ ३८ ॥ यस्य ध्यानं जनयति सुखं यादृशं तादृशं न स्वर्लोकादावपि किमपरं ब्रह्मसाक्षात्कृतौ च । ज्ञेयश्चैतन्मुनिवरमुखाम्भोजतः कीदृशी ते बुद्धिस्तादृग् जनकविधये दर्शने नास्तियत्नः ॥ ३८ ॥ वक्तव्यं यन्मदनजनितं दुःखमस्माकमेतद् भूयो भूयः प्रियतमपदे गोपयित्वा स्वदेहं । दृष्टे तेन त्वयि नयनयोर्निस्तुलप्रीतिहेतौ यास्यत्येवं क्षणमपि मनस्तत्कथायां न तस्य ॥ ४० ॥ वक्तव्यंच स्फुटमिति यदा निर्जनस्थो मुकुन्दः पद्माद्य कैरतिसुललितैरचितं तत्पदानैः । वृन्दारण्यं स्मरसि न कथं श्रीपते मञ्जुकुवं ज्ञातं ज्ञातं यदिह न परीरम्भ कुन्निकायाः ॥ ४१ ॥ आकांक्षाया ग्लपयति मनो माहशां वासना सा शाब्दे धर्मे सति न भविता छानिदेव क्रमाङ्क | साकांक्षोतया मुरहरपदे सर्वमेतन्त्रिवेद्यं नोचेत्तस्य प्रमितिजनने केन हेतुस्तवोक्तिः ॥ ४२ ॥ आगन्तव्यं सरसिजदृशा वोधितेन त्वदुक्त्या नाप्रत्यक्षं प्रमितिकरणं वाक्यमेतन युक्तं । स्वी कर्तव्यं नयनविरहापत्ति भीत्येति सर्वैर् मानाभावात् हशि नहि भवेन्मानमन्यद्धितीयात् ॥ ४३ ॥ red by Google Digi: zed by