पृष्ठम्:काव्यसंग्रहः.pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पदाजदूतः । ओशोस्माकं मलयपवनैर मर्च्छया चोपकार स्तस्मात् सर्वं किल विधिकृतं कारणं कारणं न । अम्भोजानामस्मृतकिरणज्योतिया म्हानिरुच्चैर् उग्रज्योतिः किरणमिलनाज्जायते च प्रकाशः ॥ ३३ ॥ स्त्रीभिः प्रेम प्रियतमकृतं नैव शक्यं विधातुं यातेऽतस्त्वां किल मधुपुरीं चंक्रमाय क्रमाङ्क । दग्धेनापि व्यथितहृदया पंचवाणेन वाणैः क़ुरैरुञ्चैर् मदनरमणी तत्कृते रोदितिस्म ॥ ३४ ॥ आस्ते चित्ते किल कलयितुं वासना सम्बरारे एकैकेन ब्रजकुलवधूप्राणमेकैकमङ्क । वाखेनातः सततमतनुर्जातकोपारितुल्यैः क्रूरैरस्मान्दहति कुसुमैः शायकैः पंचसंख्यैः ॥ ३५ ॥ यल्लोकानामपञ्कृतिभयात् कालकूटोपि पीतस् तानेवायें दहति गरलेस्तादृशैराचितेन । बाणेनेति चिपुररिपुणा जातकोपेन दग्धो नेत्रोत्थेन प्रबलशिखिना निर्दयं सम्बरारिः ॥ ३६॥ न्यूनः स गरजगरः शम्बरारेः शरस्य ब्रह्मादीनामयमपि यतो धैर्यविध्वंसहेतुः । एतद्दाक्यं गिरिशचरणैः खण्डितं मण्डिाक्षैर् अन्यासङ्गाद्यथित हृदयैर्निर्दयं दग्धकामैः ॥ ३७॥ उत्तापोयं मदनजनितो वर्द्धते नित्यमुच्चैर् हन्दारण्ये वसतिरघुना केवलं दुःखहेतुः । नैवं . Digi: zed by ४०७ by Google